ऋषिः - अथर्वा

देवता - वनस्पतिः

छन्दः - त्रिष्टुप्

स्वरः - वीर रथ सूक्त

PreviousNext
स्वर सहित मन्त्र

इन्द्र॒स्यौजो॑ म॒रुता॒मनी॑कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑। स इ॒मां नो॑ ह॒व्यदा॑तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ॥

स्वर सहित पद पाठ

इन्द्र॑स्य । ओज॑ः । म॒रुता॑म् । अनी॑कम् । मि॒त्रस्य॑ । गर्भ॑ः । वरु॑णस्य । नाभि॑ः । सः । इ॒माम् । न॒ः । ह॒व्यऽदा॑तिम् । जु॒षा॒णः । देव॑ । र॒थ॒ । प्रति॑ । ह॒व्या । गृ॒भा॒य॒ ॥१२५३॥


स्वर रहित मन्त्र

इन्द्रस्यौजो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः। स इमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥


स्वर रहित पद पाठ

इन्द्रस्य । ओजः । मरुताम् । अनीकम् । मित्रस्य । गर्भः । वरुणस्य । नाभिः । सः । इमाम् । नः । हव्यऽदातिम् । जुषाणः । देव । रथ । प्रति । हव्या । गृभाय ॥१२५३॥