ऋषिः - अथर्वा

देवता - दिव्या आपः

छन्दः - त्रिष्टुप्

स्वरः - निर्ऋत्यपस्तरण सूक्त

PreviousNext
स्वर सहित मन्त्र

दि॒वो नु मां बृ॑ह॒तो अ॒न्तरि॑क्षाद॒पां स्तो॒को अ॒भ्यपप्त॒द्रसे॑न। समि॑न्द्रि॒येण॒ पय॑सा॒हम॑ग्ने॒ छन्दो॑भिर्य॒ज्ञैः सु॒कृतां॑ कृ॒तेन॑ ॥

स्वर सहित पद पाठ

दि॒वः । नु । माम् । बृ॒ह॒तः । अ॒न्तरि॑क्षात् । अ॒पाम् । स्तो॒कः । अ॒भि । अ॒प॒प्त॒त् । रसे॑न । सम् । इ॒न्द्रि॒येण॑ । पय॑सा । अ॒हम् । अ॒ग्ने॒ । छन्द॑ःऽभिः । य॒ज्ञैः । सु॒ऽकृता॑म् । कृ॒तेन॑ ॥१२४.१॥


स्वर रहित मन्त्र

दिवो नु मां बृहतो अन्तरिक्षादपां स्तोको अभ्यपप्तद्रसेन। समिन्द्रियेण पयसाहमग्ने छन्दोभिर्यज्ञैः सुकृतां कृतेन ॥


स्वर रहित पद पाठ

दिवः । नु । माम् । बृहतः । अन्तरिक्षात् । अपाम् । स्तोकः । अभि । अपप्तत् । रसेन । सम् । इन्द्रियेण । पयसा । अहम् । अग्ने । छन्दःऽभिः । यज्ञैः । सुऽकृताम् । कृतेन ॥१२४.१॥