atharvaveda/6/122/1

ए॒तं भा॒गं परि॑ ददामि वि॒द्वान्विश्व॑कर्मन्प्रथम॒जा ऋ॒तस्य॑। अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॒मनु॒ सं त॑रेम ॥

ए॒तम् । भा॒गम् । परि॑ । द॒दा॒मि॒ । वि॒द्वान् । विश्व॑ऽकर्मन् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । अ॒स्माभि॑: । द॒त्तम् । ज॒रस॑: । प॒रस्ता॑त् । अच्छि॑न्नम् । तन्तु॑म् । अनु॑ । सम् । त॒रे॒म॒ ॥१२२.१॥

ऋषिः - भृगु

देवता - विश्वकर्मा

छन्दः - त्रिष्टुप्

स्वरः - तृतीयनाक सूक्त

स्वर सहित मन्त्र

ए॒तं भा॒गं परि॑ ददामि वि॒द्वान्विश्व॑कर्मन्प्रथम॒जा ऋ॒तस्य॑। अ॒स्माभि॑र्द॒त्तं ज॒रसः॑ प॒रस्ता॒दच्छि॑न्नं॒ तन्तु॒मनु॒ सं त॑रेम ॥

स्वर सहित पद पाठ

ए॒तम् । भा॒गम् । परि॑ । द॒दा॒मि॒ । वि॒द्वान् । विश्व॑ऽकर्मन् । प्र॒थ॒म॒ऽजा: । ऋ॒तस्य॑ । अ॒स्माभि॑: । द॒त्तम् । ज॒रस॑: । प॒रस्ता॑त् । अच्छि॑न्नम् । तन्तु॑म् । अनु॑ । सम् । त॒रे॒म॒ ॥१२२.१॥


स्वर रहित मन्त्र

एतं भागं परि ददामि विद्वान्विश्वकर्मन्प्रथमजा ऋतस्य। अस्माभिर्दत्तं जरसः परस्तादच्छिन्नं तन्तुमनु सं तरेम ॥


स्वर रहित पद पाठ

एतम् । भागम् । परि । ददामि । विद्वान् । विश्वऽकर्मन् । प्रथमऽजा: । ऋतस्य । अस्माभि: । दत्तम् । जरस: । परस्तात् । अच्छिन्नम् । तन्तुम् । अनु । सम् । तरेम ॥१२२.१॥