ऋषिः - भृगु
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
स्वरः - तृतीयनाक सूक्त
ए॒तम् । भा॒गम् । परि॑ । द॒दा॒मि॒ । वि॒द्वान् । विश्व॑ऽकर्मन् । प्र॒थ॒म॒ऽजाः । ऋ॒तस्य॑ । अ॒स्माभि॑ः । द॒त्तम् । ज॒रस॑ः । प॒रस्ता॑त् । अच्छि॑न्नम् । तन्तु॑म् । अनु॑ । सम् । त॒रे॒म॒ ॥१२२.१॥
एतम् । भागम् । परि । ददामि । विद्वान् । विश्वऽकर्मन् । प्रथमऽजाः । ऋतस्य । अस्माभिः । दत्तम् । जरसः । परस्तात् । अच्छिन्नम् । तन्तुम् । अनु । सम् । तरेम ॥१२२.१॥