ऋषिः - कौशिक
देवता - अन्तरिक्षम्, पृथिवी, द्यौः, अग्निः
छन्दः - त्रिष्टुप्
स्वरः - सुकृतलोक सूक्त
यत्र॑ । सु॒ऽहार्द॑ः । सु॒ऽकृत॑ः । मद॑न्ति । वि॒ऽहाय॑ । रोग॑म् । त॒न्व᳡ः । स्वाया॑ः । अश्लो॑णाः । अङ्गै॑ः । अह्रु॑ताः । स्व॒ःऽगे । तत्र॑ । प॒श्ये॒म॒ । पि॒तरौ॑ । च॒ । पु॒त्रान्॥१२०.३॥
यत्र । सुऽहार्दः । सुऽकृतः । मदन्ति । विऽहाय । रोगम् । तन्व᳡ः । स्वायाः । अश्लोणाः । अङ्गैः । अह्रुताः । स्वःऽगे । तत्र । पश्येम । पितरौ । च । पुत्रान्॥१२०.३॥