ऋषिः - कौशिक
देवता - वैश्वानरोऽग्निः
छन्दः - त्रिष्टुप्
स्वरः - पाशमोचन सूक्त
यत् । अदी॑व्यन् । ऋ॒णम् । अ॒हम् । कृ॒णोमि॑ । अदा॑स्यन् । अ॒ग्ने॒ । उ॒त । स॒म्ऽगृ॒णामि॑ । वै॒श्वा॒न॒रः । न॒ः । अ॒धि॒ऽपाः । वसि॑ष्ठः । उत् । इत् । न॒या॒ति॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् ॥११९.१॥
यत् । अदीव्यन् । ऋणम् । अहम् । कृणोमि । अदास्यन् । अग्ने । उत । सम्ऽगृणामि । वैश्वानरः । नः । अधिऽपाः । वसिष्ठः । उत् । इत् । नयाति । सुऽकृतस्य । लोकम् ॥११९.१॥