ऋषिः - कौशिक

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - आनृण्य सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒हैव सन्तः॒ प्रति॑ दद्म एनज्जी॒वा जी॒वेभ्यो॒ नि ह॑राम एनत्। अ॑प॒मित्य॑ धा॒न्य यज्ज॒घसा॒हमि॒दं तद॑ग्ने अनृ॒णो भ॑वामि ॥

स्वर सहित पद पाठ

इ॒ह । ए॒व । सन्त॑ः । प्रति॑ । द॒द्म॒ः । ए॒न॒त् । जी॒वाः । जी॒वेभ्य॑ः । नि । ह॒रा॒म॒ः । ए॒न॒त् । अ॒प॒ऽमित्य॑ । धा॒न्य᳡म् । यत् । ज॒घस॑ । अ॒हम् । इ॒दम् । तत् । अ॒ग्ने॒। अ॒नृ॒णः । भ॒वा॒मि॒ ॥११७.२॥


स्वर रहित मन्त्र

इहैव सन्तः प्रति दद्म एनज्जीवा जीवेभ्यो नि हराम एनत्। अपमित्य धान्य यज्जघसाहमिदं तदग्ने अनृणो भवामि ॥


स्वर रहित पद पाठ

इह । एव । सन्तः । प्रति । दद्मः । एनत् । जीवाः । जीवेभ्यः । नि । हरामः । एनत् । अपऽमित्य । धान्य᳡म् । यत् । जघस । अहम् । इदम् । तत् । अग्ने। अनृणः । भवामि ॥११७.२॥