ऋषिः - जाटिकायन

देवता - विवस्वान्

छन्दः - जगती

स्वरः - मधुमदन्न सूक्त

PreviousNext
स्वर सहित मन्त्र

यद्या॒मं च॒क्रुर्नि॒खन॑न्तो॒ अग्रे॒ कार्षी॑वणा अन्न॒विदो॒ न वि॒द्यया॑। वै॑वस्व॒ते राज॑नि॒ तज्जु॑हो॒म्यथ॑ य॒ज्ञियं॒ मधु॑मदस्तु॒ नोऽन्न॑म् ॥

स्वर सहित पद पाठ

यत् । या॒मम् । य॒क्रुः । नि॒ऽखन॑न्तः । अग्रे॑ । कार्षी॑वणाः । अ॒न्न॒ऽविद॑ः । न । वि॒द्यया॑ । वै॒व॒स्व॒ते । राज॑नि । तत् । जु॒हो॒मि॒ । अथ॑ । य॒ज्ञिय॑म् । मधु॑ऽमत् । अ॒स्तु॒ । नः॒। अन्न॑म् ॥११६.१॥


स्वर रहित मन्त्र

यद्यामं चक्रुर्निखनन्तो अग्रे कार्षीवणा अन्नविदो न विद्यया। वैवस्वते राजनि तज्जुहोम्यथ यज्ञियं मधुमदस्तु नोऽन्नम् ॥


स्वर रहित पद पाठ

यत् । यामम् । यक्रुः । निऽखनन्तः । अग्रे । कार्षीवणाः । अन्नऽविदः । न । विद्यया । वैवस्वते । राजनि । तत् । जुहोमि । अथ । यज्ञियम् । मधुऽमत् । अस्तु । नः। अन्नम् ॥११६.१॥