ऋषिः - ब्रह्मा

देवता - विश्वे देवाः

छन्दः - अनुष्टुप्

स्वरः - उन्मोचन सूक्त

PreviousNext
स्वर सहित मन्त्र

यद्दे॑वा देव॒हेड॑नं॒ देवा॑सश्चकृमा व॒यम्। आदि॑त्या॒स्तस्मा॑न्नो यू॒यमृ॒तस्य॒र्तेन॑ मुञ्चत ॥

स्वर सहित पद पाठ

यत् । दे॒वा॒ः । दे॒व॒ऽहेड॑नम् ।देवा॑सः । च॒कृ॒मः । व॒यम् । आदि॑त्याः । तस्मा॑त् । न॒ः । यू॒यम् । ऋ॒तस्य॑ । ऋ॒तेन॑ । मु॒ञ्च॒त॒ ॥११४.१॥


स्वर रहित मन्त्र

यद्देवा देवहेडनं देवासश्चकृमा वयम्। आदित्यास्तस्मान्नो यूयमृतस्यर्तेन मुञ्चत ॥


स्वर रहित पद पाठ

यत् । देवाः । देवऽहेडनम् ।देवासः । चकृमः । वयम् । आदित्याः । तस्मात् । नः । यूयम् । ऋतस्य । ऋतेन । मुञ्चत ॥११४.१॥