atharvaveda/6/112/2

उन्मु॑ञ्च॒ पाशां॒स्त्वम॑ग्न ए॒षां त्रय॑स्त्रि॒भिरुत्सि॑ता॒ येभि॒रास॑न्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्पि॑तापु॒त्रौ मा॒तरं॑ मुञ्च॒ सर्वा॑न् ॥

उत् । मु॒ञ्च॒ । पाशा॑न् । त्वम् । अ॒ग्ने॒ । ए॒षाम् । त्रय॑: । त्र‍ि॒ऽभि: । उत्सि॑ता: । येभि॑: । आस॑न् । स: । ग्राह्या॑: । पाशा॑न् । वि । चृ॒त॒ । प्र॒ऽजा॒नन् । पि॒ता॒पु॒त्रौ । मा॒तर॑म् । मु॒ञ्च॒ । सर्वा॑न् ॥११२.२॥

ऋषिः - अथर्वा

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - पाशमोचन सूक्त

स्वर सहित मन्त्र

उन्मु॑ञ्च॒ पाशां॒स्त्वम॑ग्न ए॒षां त्रय॑स्त्रि॒भिरुत्सि॑ता॒ येभि॒रास॑न्। स ग्राह्याः॒ पाशा॒न्वि चृ॑त प्रजा॒नन्पि॑तापु॒त्रौ मा॒तरं॑ मुञ्च॒ सर्वा॑न् ॥

स्वर सहित पद पाठ

उत् । मु॒ञ्च॒ । पाशा॑न् । त्वम् । अ॒ग्ने॒ । ए॒षाम् । त्रय॑: । त्र‍ि॒ऽभि: । उत्सि॑ता: । येभि॑: । आस॑न् । स: । ग्राह्या॑: । पाशा॑न् । वि । चृ॒त॒ । प्र॒ऽजा॒नन् । पि॒ता॒पु॒त्रौ । मा॒तर॑म् । मु॒ञ्च॒ । सर्वा॑न् ॥११२.२॥


स्वर रहित मन्त्र

उन्मुञ्च पाशांस्त्वमग्न एषां त्रयस्त्रिभिरुत्सिता येभिरासन्। स ग्राह्याः पाशान्वि चृत प्रजानन्पितापुत्रौ मातरं मुञ्च सर्वान् ॥


स्वर रहित पद पाठ

उत् । मुञ्च । पाशान् । त्वम् । अग्ने । एषाम् । त्रय: । त्र‍िऽभि: । उत्सिता: । येभि: । आसन् । स: । ग्राह्या: । पाशान् । वि । चृत । प्रऽजानन् । पितापुत्रौ । मातरम् । मुञ्च । सर्वान् ॥११२.२॥