ऋषिः - अथर्वा

देवता - भैषज्यम्

छन्दः - अनुष्टुप्

स्वरः - पिप्पलीभैषज्य सूक्त

PreviousNext
स्वर सहित मन्त्र

पि॑प्प॒ल्यः सम॑वदन्ताय॒तीर्जन॑ना॒दधि॑। यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥

स्वर सहित पद पाठ

पि॒प्प॒ल्य᳡ः । सम् । अ॒व॒द॒न्त॒। आ॒ऽय॒तीः । जन॑नात् । अधि॑ । यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पुरु॑षः ॥१०९.२॥


स्वर रहित मन्त्र

पिप्पल्यः समवदन्तायतीर्जननादधि। यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥


स्वर रहित पद पाठ

पिप्पल्य᳡ः । सम् । अवदन्त। आऽयतीः । जननात् । अधि । यम् । जीवम् । अश्नवामहै । न । सः । रिष्याति । पुरुषः ॥१०९.२॥