ऋषिः - शौनक्

देवता - मेधा

छन्दः - अनुष्टुप्

स्वरः - मेधावर्धन सूक्त

PreviousNext
स्वर सहित मन्त्र

मे॒धां सा॒यं मे॒धां प्रा॒तर्मे॒धां म॒ध्यन्दि॑नं॒ परि॑। मे॒धां सूर्य॑स्य र॒श्मिभि॒र्वच॒सा वे॑शयामहे ॥

स्वर सहित पद पाठ

मे॒धाम् । सा॒यम् । मे॒धाम् । प्रा॒तः । मे॒धाम् । म॒ध्यन्दि॑नम् । परि॑ । मे॒धाम् । सूर्य॑स्य ।‍ र॒श्मिऽभि॑ः । वच॑सा । आ । वे॒श॒या॒म॒हे॒ ॥१०८.५॥


स्वर रहित मन्त्र

मेधां सायं मेधां प्रातर्मेधां मध्यन्दिनं परि। मेधां सूर्यस्य रश्मिभिर्वचसा वेशयामहे ॥


स्वर रहित पद पाठ

मेधाम् । सायम् । मेधाम् । प्रातः । मेधाम् । मध्यन्दिनम् । परि । मेधाम् । सूर्यस्य ।‍ रश्मिऽभिः । वचसा । आ । वेशयामहे ॥१०८.५॥