ऋषिः - शौनक्

देवता - मेधा

छन्दः - पथ्याबृहती

स्वरः - मेधावर्धन सूक्त

PreviousNext
स्वर सहित मन्त्र

यां मे॒धामृ॒भवो॑ वि॒दुर्यां मे॒धामसु॑रा वि॒दुः। ऋष॑यो भ॒द्रां मे॒धां यां वि॒दुस्तां मय्या वे॑शयामसि ॥

स्वर सहित पद पाठ

याम् । मे॒धाम् । ऋ॒भव॑ः । वि॒दुः । याम् ।मे॒धाम् । असु॑राः । वि॒दुः । ऋष॑यः। भ॒द्राम् । मे॒धाम् । याम् । वि॒दुः । ताम् । मयि॑ । आ । वे॒श॒या॒म॒सि॒ ॥१०८.३॥


स्वर रहित मन्त्र

यां मेधामृभवो विदुर्यां मेधामसुरा विदुः। ऋषयो भद्रां मेधां यां विदुस्तां मय्या वेशयामसि ॥


स्वर रहित पद पाठ

याम् । मेधाम् । ऋभवः । विदुः । याम् ।मेधाम् । असुराः । विदुः । ऋषयः। भद्राम् । मेधाम् । याम् । विदुः । ताम् । मयि । आ । वेशयामसि ॥१०८.३॥