ऋषिः - प्रमोचन
देवता - दूर्वा, शाला
छन्दः - अनुष्टुप्
स्वरः - दूर्वाशाला सूक्त
आ॒ऽअय॑ने । ते॒ । प॒रा॒ऽअय॑ने । दूर्वा॑ः । रो॒ह॒न्तु॒ । पु॒ष्पिणी॑ः । उत्स॑ः । वा॒ । तत्र॑ । जाय॑ताम् । ह्र॒दः । वा॒ । पु॒ण्डरी॑कऽवान् ॥१०६.१॥
आऽअयने । ते । पराऽअयने । दूर्वाः । रोहन्तु । पुष्पिणीः । उत्सः । वा । तत्र । जायताम् । ह्रदः । वा । पुण्डरीकऽवान् ॥१०६.१॥