ऋषिः - गरुत्मान ऋषि

देवता - वनस्पतिः

छन्दः - अनुष्टुप्

स्वरः - विषनिवारण का उपाय

PreviousNext
स्वर सहित मन्त्र

दे॒वा अ॑दुः॒ सूर्यो॒ द्यौर॑दात्पृथि॒व्यदात्। ति॒स्रः सर॑स्वतिरदुः॒ सचि॑त्ता विष॒दूष॑णम् ॥

स्वर सहित पद पाठ

दे॒वाः । अ॒दु॒ः । सूर्य॑ः । अ॒दा॒त् । द्यौः । अ॒दा॒त् । पृ॒थि॒वी । अ॒दा॒त् । ति॒स्रः । सर॑स्वतीः । अ॒दु॒ः । सऽचि॑त्ताः । वि॒ष॒ऽदूष॑णम् ॥१००.१॥


स्वर रहित मन्त्र

देवा अदुः सूर्यो द्यौरदात्पृथिव्यदात्। तिस्रः सरस्वतिरदुः सचित्ता विषदूषणम् ॥


स्वर रहित पद पाठ

देवाः । अदुः । सूर्यः । अदात् । द्यौः । अदात् । पृथिवी । अदात् । तिस्रः । सरस्वतीः । अदुः । सऽचित्ताः । विषऽदूषणम् ॥१००.१॥