ऋषिः - अथर्वा

देवता - सविता

छन्दः - त्रिपदा पिपीलिकमध्या पुरउष्णिक्

स्वरः - अमृतप्रदाता सूक्त

PreviousNext
स्वर सहित मन्त्र

तमु॑ ष्टुहि॒ यो अ॒न्तः सिन्धौ॑ सू॒नुः स॒त्यस्य॒ युवा॑न॒म्। अद्रो॑घवाचं सु॒शेव॑म् ॥

स्वर सहित पद पाठ

तम् । ऊं॒ इति॑ । स्तु॒हि॒ । यः । अ॒न्तः । सिन्धौ॑ । सू॒नुः । स॒त्यस्य॑ । युवा॑नम् । अद्रो॑घऽवाचम् । सु॒ऽशेव॑म् ॥१.२॥


स्वर रहित मन्त्र

तमु ष्टुहि यो अन्तः सिन्धौ सूनुः सत्यस्य युवानम्। अद्रोघवाचं सुशेवम् ॥


स्वर रहित पद पाठ

तम् । ऊं इति । स्तुहि । यः । अन्तः । सिन्धौ । सूनुः । सत्यस्य । युवानम् । अद्रोघऽवाचम् । सुऽशेवम् ॥१.२॥