ऋषिः - ब्रह्मा

देवता - वास्तोष्पतिः

छन्दः - विराडुष्णिग्बृहतीगर्भा पञ्चपदा जगती

स्वरः - आत्मा सूक्त

PreviousNext
स्वर सहित मन्त्र

सूर्यो॑ मे॒ चक्षु॒र्वातः॑ प्रा॒णो॒न्तरि॑क्षमा॒त्मा पृ॑थि॒वी शरी॑रम्। अ॒स्तृ॒तो नामा॒हम॒यम॑स्मि॒ स आ॒त्मानं॒ नि द॑धे॒ द्यावा॑पृथि॒वीभ्यां॑ गोपी॒थाय॑ ॥

स्वर सहित पद पाठ

सूर्य॑ः । मे॒ । चक्षु॑ः । वात॑ः । प्रा॒णः । अ॒न्तरि॑क्षम् । आ॒त्मा । पृ॒थि॒वी । शरी॑रम् । अ॒स्तृ॒तः । नाम॑ । अ॒हम् । अ॒यम्। अ॒स्मि॒ । सः । आ॒त्मान॑म् । नि । द॒धे॒ । द्यावा॑पृथि॒वीभ्या॑म् । गो॒पी॒थाय॑ ॥९.७॥


स्वर रहित मन्त्र

सूर्यो मे चक्षुर्वातः प्राणोन्तरिक्षमात्मा पृथिवी शरीरम्। अस्तृतो नामाहमयमस्मि स आत्मानं नि दधे द्यावापृथिवीभ्यां गोपीथाय ॥


स्वर रहित पद पाठ

सूर्यः । मे । चक्षुः । वातः । प्राणः । अन्तरिक्षम् । आत्मा । पृथिवी । शरीरम् । अस्तृतः । नाम । अहम् । अयम्। अस्मि । सः । आत्मानम् । नि । दधे । द्यावापृथिवीभ्याम् । गोपीथाय ॥९.७॥