atharvaveda/5/8/9
ऋषिः - अथर्वा
देवता - इन्द्रः
छन्दः - षट्पदा द्व्यनुष्टुब्गर्भा जगती
स्वरः - शत्रुनाशन सूक्त
अत्र॑ । ए॒ना॒न् । इ॒न्द्र॒ । वृ॒त्र॒ऽह॒न् । उ॒ग्र: । मर्म॑णि । वि॒ध्य॒ । अत्र॑ । ए॒व । ए॒ना॒न् । अ॒भि । ति॒ष्ठ॒ । इन्द्र॑ । मे॒दी । अ॒हम् । तव॑ । अनु॑ । त्वा॒ । इ॒न्द्र॒ । आ । र॒भा॒म॒हे॒ । स्याम॑ । सु॒ऽम॒तौ । तव॑ ॥८.९॥
अत्र । एनान् । इन्द्र । वृत्रऽहन् । उग्र: । मर्मणि । विध्य । अत्र । एव । एनान् । अभि । तिष्ठ । इन्द्र । मेदी । अहम् । तव । अनु । त्वा । इन्द्र । आ । रभामहे । स्याम । सुऽमतौ । तव ॥८.९॥