ऋषिः - अथर्वा

देवता - अरातिसमूहः

छन्दः - अनुष्टुप्

स्वरः - अरातिनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

हिर॑ण्यवर्णा सु॒भगा॒ हिर॑ण्यकशिपुर्म॒ही। तस्यै॒ हिर॑ण्यद्राप॒येऽरा॑त्या अकरं॒ नमः॑ ॥

स्वर सहित पद पाठ

हिर॑ण्यऽवर्णा । सु॒ऽभगा॑ । हिर॑ण्यऽकशिपुः । म॒ही । तस्यै॑ । हिर॑ण्यऽद्रापये । अरा॑त्यै । अ॒क॒र॒म् । नम॑ः ॥७.१०॥


स्वर रहित मन्त्र

हिरण्यवर्णा सुभगा हिरण्यकशिपुर्मही। तस्यै हिरण्यद्रापयेऽरात्या अकरं नमः ॥


स्वर रहित पद पाठ

हिरण्यऽवर्णा । सुऽभगा । हिरण्यऽकशिपुः । मही । तस्यै । हिरण्यऽद्रापये । अरात्यै । अकरम् । नमः ॥७.१०॥