ऋषिः - अथर्वा

देवता - रुद्रगणः

छन्दः - पञ्चपदा अनुष्टुबुष्णिक् त्रिष्टुब्गर्भा जगती

स्वरः - ब्रह्मविद्या सूक्त

PreviousNext
स्वर सहित मन्त्र

पर्यु॒ षु प्र ध॑न्वा॒ वाज॑सातये॒ परि॑ वृ॒त्राणि॑ स॒क्षणिः॑। द्वि॒षस्तदध्य॑र्ण॒वेने॑यसे सनिस्र॒सो नामा॑सि त्रयोद॒शो मास॒ इन्द्र॑स्य गृ॒हः ॥

स्वर सहित पद पाठ

परि॑ । ऊं॒ इति॑ । सु । प्र । ध॒न्व॒ । वाज॑ऽसातये । परि॑ । वृ॒त्राणि॑ । स॒क्षणि॑ः । द्वि॒षः । तत् । अधि॑। अ॒र्ण॒वेन॑ । ई॒य॒से॒ । स॒नि॒स्र॒सः । नाम । अ॒सि॒ । त्र॒य॒ःऽद॒शः । मास॑ः । इन्द्र॑स्य । गृ॒हः ॥६.४॥


स्वर रहित मन्त्र

पर्यु षु प्र धन्वा वाजसातये परि वृत्राणि सक्षणिः। द्विषस्तदध्यर्णवेनेयसे सनिस्रसो नामासि त्रयोदशो मास इन्द्रस्य गृहः ॥


स्वर रहित पद पाठ

परि । ऊं इति । सु । प्र । धन्व । वाजऽसातये । परि । वृत्राणि । सक्षणिः । द्विषः । तत् । अधि। अर्णवेन । ईयसे । सनिस्रसः । नाम । असि । त्रयःऽदशः । मासः । इन्द्रस्य । गृहः ॥६.४॥