ऋषिः - भृग्वङ्गिराः

देवता - कुष्ठस्तक्मनाशनः

छन्दः - अनुष्टुप्

स्वरः - कुष्ठतक्मनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

दे॒वेभ्यो॒ अधि॑ जा॒तोऽसि॒ सोम॑स्यासि॒ सखा॑ हि॒तः। स प्रा॒णाय॑ व्या॒नाय॒ चक्षु॑षे मे अ॒स्मै मृ॑ड ॥

स्वर सहित पद पाठ

दे॒वेभ्य॑ः । अधि॑ । जा॒तः । अ॒सि॒ । सोम॑स्य । अ॒सि॒ । सखा॑ । हि॒तः । सः । प्रा॒णाय॑ । वि॒ऽआ॒नाय॑ । चक्षु॑षे । मे॒ । अ॒स्मै । मृ॒ड॒ ॥४.७॥


स्वर रहित मन्त्र

देवेभ्यो अधि जातोऽसि सोमस्यासि सखा हितः। स प्राणाय व्यानाय चक्षुषे मे अस्मै मृड ॥


स्वर रहित पद पाठ

देवेभ्यः । अधि । जातः । असि । सोमस्य । असि । सखा । हितः । सः । प्राणाय । विऽआनाय । चक्षुषे । मे । अस्मै । मृड ॥४.७॥