ऋषिः - भृग्वङ्गिराः
देवता - कुष्ठस्तक्मनाशनः
छन्दः - अनुष्टुप्
स्वरः - कुष्ठतक्मनाशन सूक्त
यः । गि॒रिषु॑ । अजा॑यथाः । वी॒रुधा॑म् । बल॑वत्ऽतमः ।कुष्ठ॑ । आ । इ॒हि॒ । त॒क्म॒ऽना॒श॒न॒ । त॒क्मान॑म् । ना॒शय॑न् । इ॒तः ॥४.१॥
यः । गिरिषु । अजायथाः । वीरुधाम् । बलवत्ऽतमः ।कुष्ठ । आ । इहि । तक्मऽनाशन । तक्मानम् । नाशयन् । इतः ॥४.१॥