atharvaveda/5/31/12

कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥

कृ॒त्या॒ऽकृत॑म् । व॒ल॒गिन॑म् । मू॒लिन॑म् । श॒प॒थे॒य्य᳡म् । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । अ॒ग्नि: । वि॒ध्य॒तु॒ । अ॒स्तया॑ ॥३१.१२॥

ऋषिः - शुक्रः

देवता - कृत्याप्रतिहरणम्

छन्दः - पथ्याबृहती

स्वरः - कृत्यापरिहरण सूक्त

स्वर सहित मन्त्र

कृ॑त्या॒कृतं वल॒गिनं॑ मू॒लिनं॑ शपथे॒य्य॑म्। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेना॒ग्निर्वि॑ध्यत्व॒स्तया॑ ॥

स्वर सहित पद पाठ

कृ॒त्या॒ऽकृत॑म् । व॒ल॒गिन॑म् । मू॒लिन॑म् । श॒प॒थे॒य्य᳡म् । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । अ॒ग्नि: । वि॒ध्य॒तु॒ । अ॒स्तया॑ ॥३१.१२॥


स्वर रहित मन्त्र

कृत्याकृतं वलगिनं मूलिनं शपथेय्यम्। इन्द्रस्तं हन्तु महता वधेनाग्निर्विध्यत्वस्तया ॥


स्वर रहित पद पाठ

कृत्याऽकृतम् । वलगिनम् । मूलिनम् । शपथेय्य᳡म् । इन्द्र: । तम् । हन्तु । महता । वधेन । अग्नि: । विध्यतु । अस्तया ॥३१.१२॥