ऋषिः - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - अनुष्टुप्
स्वरः - कृत्यापरिहरण सूक्त
याम् । ते॒ । च॒क्रुः । आ॒मे । पात्रे॑ । याम् । च॒क्रुः । मि॒श्रऽधा॑न्ये । आ॒मे । मां॒से । कृ॒त्याम् । याम् । च॒क्रुः । पुन॑ः । प्रति॑ । ह॒रा॒मि॒ । ताम् ॥३१.१॥
याम् । ते । चक्रुः । आमे । पात्रे । याम् । चक्रुः । मिश्रऽधान्ये । आमे । मांसे । कृत्याम् । याम् । चक्रुः । पुनः । प्रति । हरामि । ताम् ॥३१.१॥