ऋषिः - चातनः

देवता - आयुः

छन्दः - अनुष्टुप्

स्वरः - दीर्घायुष्य सूक्त

PreviousNext
स्वर सहित मन्त्र

अनु॑हूतः॒ पुन॒रेहि॑ वि॒द्वानु॒दय॑नं प॒थः। आ॒रोह॑णमा॒क्रम॑णं॒ जीव॑तोजीव॒तोऽय॑नम् ॥

स्वर सहित पद पाठ

अनु॑ऽहूतः । पुन॑ः । आ । इ॒हि॒ । वि॒द्वान् । उ॒त्ऽअय॑नम् । प॒थः । आ॒ऽरोह॑णम् । आ॒ऽक्रम॑णम् । जीव॑तःऽजीवतः । अय॑नम् ॥३०.७॥


स्वर रहित मन्त्र

अनुहूतः पुनरेहि विद्वानुदयनं पथः। आरोहणमाक्रमणं जीवतोजीवतोऽयनम् ॥


स्वर रहित पद पाठ

अनुऽहूतः । पुनः । आ । इहि । विद्वान् । उत्ऽअयनम् । पथः । आऽरोहणम् । आऽक्रमणम् । जीवतःऽजीवतः । अयनम् ॥३०.७॥