ऋषिः - चातनः
देवता - आयुः
छन्दः - अनुष्टुप्
स्वरः - दीर्घायुष्य सूक्त
मा । ते॒ । प्रा॒णः । उप॑ । द॒स॒त् । मो इति॑ । अ॒पा॒नः । अपि॑ । धा॒यि॒ । ते॒ । सूर्य॑ः । त्वा॒ । अधि॑ऽपति । मृ॒त्योः । उ॒त्ऽआय॑च्छतु । र॒श्मिऽभि॑ः ॥३०.१५॥
मा । ते । प्राणः । उप । दसत् । मो इति । अपानः । अपि । धायि । ते । सूर्यः । त्वा । अधिऽपति । मृत्योः । उत्ऽआयच्छतु । रश्मिऽभिः ॥३०.१५॥