ऋषिः - चातनः

देवता - आयुः

छन्दः - पथ्यापङ्क्तिः

स्वरः - दीर्घायुष्य सूक्त

PreviousNext
स्वर सहित मन्त्र

आ॒वत॑स्त आ॒वतः॑ परा॒वत॑स्त आ॒वतः॑। इ॒हैव भ॑व॒ मा नु गा॒ मा पूर्वा॒ननु॑ गाः पि॒तॄनसुं॑ बध्नामि ते दृ॒ढम् ॥

स्वर सहित पद पाठ

आ॒ऽवत॑ः । ते॒ । आ॒ऽवत॑ः । प॒रा॒ऽवत॑ः । ते॒ । आ॒ उ॒न्मो॒च॒न॒प्र॒मो॒च॒ने इत्यु॑न्मोचनऽप्रमोच॒ने । उ॒भे इति॑ । वा॒चा । व॒दा॒मि॒ । ते॒ वत॑ः । इ॒ह । ए॒व । भ॒व॒ । मा । नु । गा॒ः । मा । पूर्वा॑न् । अनु॑ । गा॒ः । पि॒तृन् । असु॑म् । ब॒ध्ना॒मि॒ । ते॒ । दृ॒ढम् ॥३०.१॥


स्वर रहित मन्त्र

आवतस्त आवतः परावतस्त आवतः। इहैव भव मा नु गा मा पूर्वाननु गाः पितॄनसुं बध्नामि ते दृढम् ॥


स्वर रहित पद पाठ

आऽवतः । ते । आऽवतः । पराऽवतः । ते । आ उन्मोचनप्रमोचने इत्युन्मोचनऽप्रमोचने । उभे इति । वाचा । वदामि । ते वतः । इह । एव । भव । मा । नु । गाः । मा । पूर्वान् । अनु । गाः । पितृन् । असुम् । बध्नामि । ते । दृढम् ॥३०.१॥