ऋषिः - बृहद्दिवोऽथर्वा

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - विजयप्रार्थना सूक्त

PreviousNext
स्वर सहित मन्त्र

धा॒ता वि॑धा॒ता भुव॑नस्य॒ यस्पति॑र्दे॒वः स॑वि॒ताभि॑मातिषा॒हः। आ॑दि॒त्या रु॒द्रा अ॒श्विनो॒भा दे॒वाः पा॑न्तु॒ यज॑मानं निरृ॒थात् ॥

स्वर सहित पद पाठ

धा॒ता । वि॒ऽधा॒ता । भुव॑नस्य । यः । पति॑ः । दे॒वः । स॒वि॒ता । अ॒भि॒मा॒ति॒ऽस॒हः। आ॒दि॒त्याः । रु॒द्राः । अ॒श्विना॑ । उ॒भा । दे॒वाः । पा॒न्तु॒ । यज॑मानम् । नि॒ःऽऋ॒थात् ॥३.९॥


स्वर रहित मन्त्र

धाता विधाता भुवनस्य यस्पतिर्देवः सविताभिमातिषाहः। आदित्या रुद्रा अश्विनोभा देवाः पान्तु यजमानं निरृथात् ॥


स्वर रहित पद पाठ

धाता । विऽधाता । भुवनस्य । यः । पतिः । देवः । सविता । अभिमातिऽसहः। आदित्याः । रुद्राः । अश्विना । उभा । देवाः । पान्तु । यजमानम् । निःऽऋथात् ॥३.९॥