ऋषिः - चातनः
देवता - जातवेदाः
छन्दः - त्रिष्टुप्
स्वरः - रक्षोघ्न सूक्त
आ॒मे । सुऽप॑क्वे । श॒बले॑ । विऽप॑क्वे । यः । मा॒ । पि॒शा॒चः । अश॑ने । द॒दम्भ॑ । तत् । आ॒त्मना॑ । प्र॒ऽजया॑ । पि॒शा॒चाः । वि । या॒त॒य॒न्ता॒म् । अ॒ग॒दः । अ॒यम् ।अ॒स्तु॒ ॥२९.६॥
आमे । सुऽपक्वे । शबले । विऽपक्वे । यः । मा । पिशाचः । अशने । ददम्भ । तत् । आत्मना । प्रऽजया । पिशाचाः । वि । यातयन्ताम् । अगदः । अयम् ।अस्तु ॥२९.६॥