ऋषिः - ब्रह्मा

देवता - योनिः, गर्भः

छन्दः - अनुष्टुप्

स्वरः - गर्भाधान सूक्त

PreviousNext
स्वर सहित मन्त्र

वि जि॑हीष्व बार्हत्सामे॒ गर्भ॑स्ते॒ योनि॒मा श॑याम्। अदु॑ष्टे दे॒वाः पु॒त्रं सो॑म॒पा उ॑भया॒विन॑म् ॥

स्वर सहित पद पाठ

वि । जि॒ही॒ष्व॒ । बा॒र्ह॒त्ऽसा॒मे॒ । गर्भ॑ः। ते॒ । योनि॑म् । आ । श॒या॒म् । अदु॑ः । ते॒ । दे॒वाः । पु॒त्रम् । सो॒म॒ऽपाः । उ॒भ॒या॒विन॑म् ॥२५.९॥


स्वर रहित मन्त्र

वि जिहीष्व बार्हत्सामे गर्भस्ते योनिमा शयाम्। अदुष्टे देवाः पुत्रं सोमपा उभयाविनम् ॥


स्वर रहित पद पाठ

वि । जिहीष्व । बार्हत्ऽसामे । गर्भः। ते । योनिम् । आ । शयाम् । अदुः । ते । देवाः । पुत्रम् । सोमऽपाः । उभयाविनम् ॥२५.९॥