ऋषिः - ब्रह्मा
देवता - योनिः, गर्भः
छन्दः - अनुष्टुप्
स्वरः - गर्भाधान सूक्त
गर्भ॑ः । अ॒सि॒ । ओष॑धीनाम् । गर्भ॑ः । वन॒स्पती॑नाम् । गर्भ॑ः । विश्व॑स्य । भू॒तस्य॑ । सः । अ॒ग्ने॒ । गर्भ॑म् । आ । इ॒ह ।धा॒ः ॥२५.७॥
गर्भः । असि । ओषधीनाम् । गर्भः । वनस्पतीनाम् । गर्भः । विश्वस्य । भूतस्य । सः । अग्ने । गर्भम् । आ । इह ।धाः ॥२५.७॥