ऋषिः - कण्वः

देवता - इन्द्रः

छन्दः - अनुष्टुप्

स्वरः - कृमिघ्न सूक्त

PreviousNext
स्वर सहित मन्त्र

येवा॑षासः॒ कष्क॑षास एज॒त्काः शि॑पवित्नु॒काः। दृ॒ष्टश्च॑ ह॒न्यतां॒ क्रिमि॑रु॒तादृष्ट॑श्च हन्यताम् ॥

स्वर सहित पद पाठ

येवा॑षासः । कष्क॑षासः । ए॒ज॒त्ऽकाः । शि॒प॒वि॒त्नु॒काः । दृ॒ष्टः । च॒ । ह॒न्यता॑म् । क्रिमि॑ः । उ॒त । अ॒दृष्ट॑ः । च॒ । ह॒न्य॒ता॒म् ॥२३.७॥


स्वर रहित मन्त्र

येवाषासः कष्कषास एजत्काः शिपवित्नुकाः। दृष्टश्च हन्यतां क्रिमिरुतादृष्टश्च हन्यताम् ॥


स्वर रहित पद पाठ

येवाषासः । कष्कषासः । एजत्ऽकाः । शिपवित्नुकाः । दृष्टः । च । हन्यताम् । क्रिमिः । उत । अदृष्टः । च । हन्यताम् ॥२३.७॥