ऋषिः - कण्वः

देवता - इन्द्रः

छन्दः - अनुष्टुप्

स्वरः - कृमिघ्न सूक्त

PreviousNext
स्वर सहित मन्त्र

ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः। अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ॥

स्वर सहित पद पाठ

ह॒तास॑ः । अ॒स्य॒ । वेशस॑ः । ह॒तास॑ः । परि॑ऽवेशसः । अथो॒ इति॑ । ये । क्षु॒ल्ल॒काःऽइ॑व । सर्वे॑ । ते । क्रिम॑यः । ह॒ताः ॥२३.१२॥


स्वर रहित मन्त्र

हतासो अस्य वेशसो हतासः परिवेशसः। अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥


स्वर रहित पद पाठ

हतासः । अस्य । वेशसः । हतासः । परिऽवेशसः । अथो इति । ये । क्षुल्लकाःऽइव । सर्वे । ते । क्रिमयः । हताः ॥२३.१२॥