atharvaveda/5/22/9

अ॑न्यक्षे॒त्रे न र॑मसे व॒शी सन्मृ॑डयासि नः। अभू॑दु॒ प्रार्थ॑स्त॒क्मा स ग॑मिष्यति॒ बल्हि॑कान् ॥

अ॒न्य॒ऽक्षे॒त्रे । न । र॒म॒से॒ । व॒शी । सन् । मृ॒ड॒य॒सि॒ । न॒: । अभू॑त् । ऊं॒ इति॑ । प्र॒ऽअर्थ॑: । त॒क्मा । स: । ग॒मि॒ष्य॒ति॒ । बल्हि॑कान् ॥२२.९॥

ऋषिः - भृग्वङ्गिराः

देवता - तक्मनाशनः

छन्दः - अनुष्टुप्

स्वरः - तक्मनाशन सूक्त

स्वर सहित मन्त्र

अ॑न्यक्षे॒त्रे न र॑मसे व॒शी सन्मृ॑डयासि नः। अभू॑दु॒ प्रार्थ॑स्त॒क्मा स ग॑मिष्यति॒ बल्हि॑कान् ॥

स्वर सहित पद पाठ

अ॒न्य॒ऽक्षे॒त्रे । न । र॒म॒से॒ । व॒शी । सन् । मृ॒ड॒य॒सि॒ । न॒: । अभू॑त् । ऊं॒ इति॑ । प्र॒ऽअर्थ॑: । त॒क्मा । स: । ग॒मि॒ष्य॒ति॒ । बल्हि॑कान् ॥२२.९॥


स्वर रहित मन्त्र

अन्यक्षेत्रे न रमसे वशी सन्मृडयासि नः। अभूदु प्रार्थस्तक्मा स गमिष्यति बल्हिकान् ॥


स्वर रहित पद पाठ

अन्यऽक्षेत्रे । न । रमसे । वशी । सन् । मृडयसि । न: । अभूत् । ऊं इति । प्रऽअर्थ: । तक्मा । स: । गमिष्यति । बल्हिकान् ॥२२.९॥