ऋषिः - भृग्वङ्गिराः
देवता - तक्मनाशनः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - तक्मनाशन सूक्त
अ॒ग्निः । त॒क्मान॑म् । अप॑ । बा॒ध॒ता॒म् । इ॒तः । सोम॑ः । ग्रावा॑ । वरु॑णः । पू॒तऽद॑क्षा । वेदि॑ः । ब॒र्हिः । स॒म्ऽइध॑ः । शोशु॑चानाः । अप॑ । द्वेषां॑सि । अ॒मु॒या॒ । भ॒व॒न्तु॒ ॥२२.१॥
अग्निः । तक्मानम् । अप । बाधताम् । इतः । सोमः । ग्रावा । वरुणः । पूतऽदक्षा । वेदिः । बर्हिः । सम्ऽइधः । शोशुचानाः । अप । द्वेषांसि । अमुया । भवन्तु ॥२२.१॥