ऋषिः - ब्रह्मा

देवता - वानस्पत्यो दुन्दुभिः

छन्दः - अनुष्टुप्

स्वरः - शत्रुसेनात्रासन सूक्त

PreviousNext
स्वर सहित मन्त्र

यैरिन्द्रः॑ प्र॒क्रीड॑ते पद्घो॒षैश्छा॒यया॑ स॒ह। तैर॒मित्रा॑स्त्रसन्तु नो॒ऽमी ये यन्त्य॑नीक॒शः ॥

स्वर सहित पद पाठ

यैः । इन्द्र॑ः । प्र॒ऽक्रीड॑ते । प॒त्ऽघो॒षैः । छा॒यया॑ । स॒ह । तैः । अ॒मित्रा॑ः । त्र॒स॒न्तु॒ । न॒ः । अ॒मी इति॑ । ये । यन्ति॑ । अ॒नी॒क॒ऽशः ॥२१.८॥


स्वर रहित मन्त्र

यैरिन्द्रः प्रक्रीडते पद्घोषैश्छायया सह। तैरमित्रास्त्रसन्तु नोऽमी ये यन्त्यनीकशः ॥


स्वर रहित पद पाठ

यैः । इन्द्रः । प्रऽक्रीडते । पत्ऽघोषैः । छायया । सह । तैः । अमित्राः । त्रसन्तु । नः । अमी इति । ये । यन्ति । अनीकऽशः ॥२१.८॥