atharvaveda/5/20/7

अ॑न्त॒रेमे नभ॑सी॒ घोषो॑ अस्तु॒ पृथ॑क्ते ध्व॒नयो॑ यन्तु॒ शीभ॑म्। अ॒भि क्र॑न्द स्त॒नयो॒त्पिपा॑नः श्लोक॒कृन्मि॑त्र॒तूर्या॑य स्व॒र्धी ॥

अ॒न्त॒रा । इ॒मे इति॑ । नभ॑सी॒ इति॑ । घोष॑: । अ॒स्तु॒ । पृथ॑क् । ते॒ । ध्व॒नय॑: । य॒न्तु॒ । शीभ॑म् । अ॒भि । क्र॒न्द॒। स्त॒नय॑ । उ॒त्ऽपिपा॑न: । श्लो॒क॒ऽकृत् । मि॒त्र॒ऽतूर्या॑य । सु॒ऽअ॒र्धी ॥२०.७॥

ऋषिः - ब्रह्मा

देवता - वानस्पत्यो दुन्दुभिः

छन्दः - त्रिष्टुप्

स्वरः - शत्रुसेनात्रासन सूक्त

स्वर सहित मन्त्र

अ॑न्त॒रेमे नभ॑सी॒ घोषो॑ अस्तु॒ पृथ॑क्ते ध्व॒नयो॑ यन्तु॒ शीभ॑म्। अ॒भि क्र॑न्द स्त॒नयो॒त्पिपा॑नः श्लोक॒कृन्मि॑त्र॒तूर्या॑य स्व॒र्धी ॥

स्वर सहित पद पाठ

अ॒न्त॒रा । इ॒मे इति॑ । नभ॑सी॒ इति॑ । घोष॑: । अ॒स्तु॒ । पृथ॑क् । ते॒ । ध्व॒नय॑: । य॒न्तु॒ । शीभ॑म् । अ॒भि । क्र॒न्द॒। स्त॒नय॑ । उ॒त्ऽपिपा॑न: । श्लो॒क॒ऽकृत् । मि॒त्र॒ऽतूर्या॑य । सु॒ऽअ॒र्धी ॥२०.७॥


स्वर रहित मन्त्र

अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम्। अभि क्रन्द स्तनयोत्पिपानः श्लोककृन्मित्रतूर्याय स्वर्धी ॥


स्वर रहित पद पाठ

अन्तरा । इमे इति । नभसी इति । घोष: । अस्तु । पृथक् । ते । ध्वनय: । यन्तु । शीभम् । अभि । क्रन्द। स्तनय । उत्ऽपिपान: । श्लोकऽकृत् । मित्रऽतूर्याय । सुऽअर्धी ॥२०.७॥