ऋषिः - ब्रह्मा

देवता - वानस्पत्यो दुन्दुभिः

छन्दः - त्रिष्टुप्

स्वरः - शत्रुसेनात्रासन सूक्त

PreviousNext
स्वर सहित मन्त्र

पूर्वो॑ दुन्दुभे॒ प्र व॑दासि॒ वाचं॒ भूम्याः॑ पृ॒ष्ठे व॑द॒ रोच॑मानः। अ॑मित्रसे॒नाम॑भि॒जञ्ज॑भानो द्यु॒मद्व॑द दुन्दुभे सू॒नृता॑वत् ॥

स्वर सहित पद पाठ

पूर्व॑ः । दु॒न्दु॒भे॒ ।प्र । व॒दा॒सि॒ । वाच॑म् । भूम्या॑ः । पृ॒ष्ठे । व॒द॒ । रोच॑मानः । अ॒मि॒त्र॒ऽसे॒नाम् । अ॒भि॒ऽजञ्ज॑भानः । द्यु॒मत् । व॒द॒ । दु॒न्दु॒भे॒ । सू॒नृता॑ऽवत् ॥२०.६॥


स्वर रहित मन्त्र

पूर्वो दुन्दुभे प्र वदासि वाचं भूम्याः पृष्ठे वद रोचमानः। अमित्रसेनामभिजञ्जभानो द्युमद्वद दुन्दुभे सूनृतावत् ॥


स्वर रहित पद पाठ

पूर्वः । दुन्दुभे ।प्र । वदासि । वाचम् । भूम्याः । पृष्ठे । वद । रोचमानः । अमित्रऽसेनाम् । अभिऽजञ्जभानः । द्युमत् । वद । दुन्दुभे । सूनृताऽवत् ॥२०.६॥