ऋषिः - ब्रह्मा

देवता - वानस्पत्यो दुन्दुभिः

छन्दः - त्रिष्टुप्

स्वरः - शत्रुसेनात्रासन सूक्त

PreviousNext
स्वर सहित मन्त्र

सिं॒ह इ॑वास्तानीद्द्रु॒वयो॒ विब॑द्धोऽभि॒क्रन्द॑न्नृष॒भो वा॑सि॒तामि॑व। वृषा॒ त्वं वध्र॑यस्ते स॒पत्ना॑ ऐ॒न्द्रस्ते॒ शुष्मो॑ अभिमातिषा॒हः ॥

स्वर सहित पद पाठ

सिं॒हःऽइ॑व । अ॒स्ता॒नी॒त् । द्रु॒वय॑ः । विऽब॑ध्दः । अ॒भि॒ऽक्रन्द॑न् । ऋ॒ष॒भः । वा॒सि॒ताम्ऽइ॑व । वृषा॑ । त्वम् । वध्र॑यः । ते॒ । स॒ऽपत्ना॑ः । ऐ॒न्द्रः । ते॒ । शुष्म॑ः । अ॒भि॒मा॒ति॒ऽस॒हः ॥२०.२॥


स्वर रहित मन्त्र

सिंह इवास्तानीद्द्रुवयो विबद्धोऽभिक्रन्दन्नृषभो वासितामिव। वृषा त्वं वध्रयस्ते सपत्ना ऐन्द्रस्ते शुष्मो अभिमातिषाहः ॥


स्वर रहित पद पाठ

सिंहःऽइव । अस्तानीत् । द्रुवयः । विऽबध्दः । अभिऽक्रन्दन् । ऋषभः । वासिताम्ऽइव । वृषा । त्वम् । वध्रयः । ते । सऽपत्नाः । ऐन्द्रः । ते । शुष्मः । अभिमातिऽसहः ॥२०.२॥