ऋषिः - ब्रह्मा

देवता - वानस्पत्यो दुन्दुभिः

छन्दः - जगती

स्वरः - शत्रुसेनात्रासन सूक्त

PreviousNext
स्वर सहित मन्त्र

उ॒च्चैर्घो॑षो दुन्दु॒भिः स॑त्वना॒यन्वा॑नस्प॒त्यः संभृ॑त उ॒स्रिया॑भिः। वाचं॑ क्षुणुवा॒नो द॒मय॑न्त्स॒पत्ना॑न्त्सिं॒ह इ॑व जे॒ष्यन्न॒भि तं॑स्तनीहि ॥

स्वर सहित पद पाठ

उ॒च्चैःऽघो॑षः । दु॒न्दु॒भिः । स॒त्व॒ना॒ऽयन् । वा॒न॒स्प॒त्यः । सम्ऽभृ॑तः । उ॒स्रिया॑भिः । वाच॑म् । क्षु॒णु॒वा॒नः । द॒मय॑न् । स॒ऽपत्ना॑न् । सिं॒हःऽइ॑व । जे॒ष्यन् । अ॒भि । तं॒स्त॒नी॒हि॒ ॥२०.१॥


स्वर रहित मन्त्र

उच्चैर्घोषो दुन्दुभिः सत्वनायन्वानस्पत्यः संभृत उस्रियाभिः। वाचं क्षुणुवानो दमयन्त्सपत्नान्त्सिंह इव जेष्यन्नभि तंस्तनीहि ॥


स्वर रहित पद पाठ

उच्चैःऽघोषः । दुन्दुभिः । सत्वनाऽयन् । वानस्पत्यः । सम्ऽभृतः । उस्रियाभिः । वाचम् । क्षुणुवानः । दमयन् । सऽपत्नान् । सिंहःऽइव । जेष्यन् । अभि । तंस्तनीहि ॥२०.१॥