ऋषिः - बृहद्दिवोऽथर्वा

देवता - वरुणः

छन्दः - त्रिष्टुप्

स्वरः - भुवनज्येष्ठ सूक्त

PreviousNext
स्वर सहित मन्त्र

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वः कृणव॒दिन्द्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः। म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजा॒ तुर॑श्चि॒द्विश्व॑मर्णव॒त्तप॑स्वान् ॥

स्वर सहित पद पाठ

इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑वः । कृ॒ण॒व॒त् । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒यः । स्व॒ःऽसाः । म॒हः । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजा॑ । तुर॑ः । चि॒त् । विश्व॑म् । अ॒र्ण॒व॒त् । तप॑स्वान् ॥२.८॥


स्वर रहित मन्त्र

इमा ब्रह्म बृहद्दिवः कृणवदिन्द्राय शूषमग्रियः स्वर्षाः। महो गोत्रस्य क्षयति स्वराजा तुरश्चिद्विश्वमर्णवत्तपस्वान् ॥


स्वर रहित पद पाठ

इमा । ब्रह्म । बृहत्ऽदिवः । कृणवत् । इन्द्राय । शूषम् । अग्रियः । स्वःऽसाः । महः । गोत्रस्य । क्षयति । स्वऽराजा । तुरः । चित् । विश्वम् । अर्णवत् । तपस्वान् ॥२.८॥