ऋषिः - मयोभूः

देवता - ब्रह्मगवी

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - ब्रह्मगवी सूक्त

PreviousNext
स्वर सहित मन्त्र

जि॒ह्वा ज्या भव॑ति॒ कुल्म॑लं॒ वाङ्ना॑डी॒का दन्ता॒स्तप॑सा॒भिदि॑ग्धाः। तेभि॑र्ब्र॒ह्मा वि॑ध्यति देवपी॒यून् हृ॑द्ब॒लैर्धनु॑र्भिर्दे॒वजू॑तैः ॥

स्वर सहित पद पाठ

जि॒ह्वा । ज्या । भव॑ति । कुल्म॑लम् । वाक् । ना॒डी॒काः । दन्ता॑ः । तप॑सा । अ॒भिऽदि॑ग्धाः । तेभि॑ः । ब्र॒ह्मा । वि॒ध्य॒ति॒ । दे॒व॒ऽपी॒यून् । हृ॒त्ऽब॒लैः । धनु॑ःऽभिः । दे॒वऽजू॑तैः ॥१८.८॥


स्वर रहित मन्त्र

जिह्वा ज्या भवति कुल्मलं वाङ्नाडीका दन्तास्तपसाभिदिग्धाः। तेभिर्ब्रह्मा विध्यति देवपीयून् हृद्बलैर्धनुर्भिर्देवजूतैः ॥


स्वर रहित पद पाठ

जिह्वा । ज्या । भवति । कुल्मलम् । वाक् । नाडीकाः । दन्ताः । तपसा । अभिऽदिग्धाः । तेभिः । ब्रह्मा । विध्यति । देवऽपीयून् । हृत्ऽबलैः । धनुःऽभिः । देवऽजूतैः ॥१८.८॥