ऋषिः - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
स्वरः - ब्रह्मगवी सूक्त
न । ब्रा॒ह्म॒णः । हिं॒सि॒त॒व्य᳡ः । अ॒ग्निः । प्रि॒यत॑नोःऽइव । सोम॑ः । हि । अ॒स्य॒ । दा॒या॒दः । इन्द्र॑ः । अ॒स्य॒ । अ॒भि॒श॒स्ति॒ऽपा ॥१८.६॥
न । ब्राह्मणः । हिंसितव्य᳡ः । अग्निः । प्रियतनोःऽइव । सोमः । हि । अस्य । दायादः । इन्द्रः । अस्य । अभिशस्तिऽपा ॥१८.६॥