atharvaveda/5/18/4

निर्वै क्ष॒त्रं नय॑ति हन्ति॒ वर्चो॒ऽग्निरि॒वार॑ब्धो॒ वि दु॑नोति॒ सर्व॑म्। यो ब्रा॑ह्म॒णं मन्य॑ते॒ अन्न॑मे॒व स वि॒षस्य॑ पिबति तैमा॒तस्य॑ ॥

नि: । वै । क्ष॒त्रम् । नय॑ति । हन्ति॑ । वर्च॑: । अ॒ग्नि:ऽइ॑व । आऽर॑ब्ध: । वि । दु॒नो॒ति॒ । सर्व॑म् । य: । ब्रा॒ह्म॒णम् । मन्य॑ते । अन्न॑म् । ए॒व । स: । वि॒षस्य॑ । पि॒ब॒ति॒ । तै॒मा॒तस्य॑ ॥१८.४॥

ऋषिः - मयोभूः

देवता - ब्रह्मगवी

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

निर्वै क्ष॒त्रं नय॑ति हन्ति॒ वर्चो॒ऽग्निरि॒वार॑ब्धो॒ वि दु॑नोति॒ सर्व॑म्। यो ब्रा॑ह्म॒णं मन्य॑ते॒ अन्न॑मे॒व स वि॒षस्य॑ पिबति तैमा॒तस्य॑ ॥

स्वर सहित पद पाठ

नि: । वै । क्ष॒त्रम् । नय॑ति । हन्ति॑ । वर्च॑: । अ॒ग्नि:ऽइ॑व । आऽर॑ब्ध: । वि । दु॒नो॒ति॒ । सर्व॑म् । य: । ब्रा॒ह्म॒णम् । मन्य॑ते । अन्न॑म् । ए॒व । स: । वि॒षस्य॑ । पि॒ब॒ति॒ । तै॒मा॒तस्य॑ ॥१८.४॥


स्वर रहित मन्त्र

निर्वै क्षत्रं नयति हन्ति वर्चोऽग्निरिवारब्धो वि दुनोति सर्वम्। यो ब्राह्मणं मन्यते अन्नमेव स विषस्य पिबति तैमातस्य ॥


स्वर रहित पद पाठ

नि: । वै । क्षत्रम् । नयति । हन्ति । वर्च: । अग्नि:ऽइव । आऽरब्ध: । वि । दुनोति । सर्वम् । य: । ब्राह्मणम् । मन्यते । अन्नम् । एव । स: । विषस्य । पिबति । तैमातस्य ॥१८.४॥