atharvaveda/5/18/13

दे॑वपी॒युश्च॑रति॒ मर्त्ये॑षु गरगी॒र्णो भ॑व॒त्यस्थि॑भूयान्। यो ब्रा॑ह्म॒णं दे॒वब॑न्धुं हि॒नस्ति॒ न स पि॑तृ॒याण॒मप्ये॑ति लो॒कम् ॥

दे॒व॒ऽपी॒यु: । च॒र॒ति॒ । मर्त्ये॑षु । ग॒र॒ऽगी॒र्ण: । भ॒व॒ति॒ । अस्थि॑ऽभूयान् । य: । ब्र॒ह्मा॒णम् । दे॒वऽब॑न्धुम् । हि॒नस्ति॑ । न । स: । पि॒तृ॒ऽयान॑म् । अपि॑ । ए॒ति॒ । लो॒कम् ॥१८.१३॥

ऋषिः - मयोभूः

देवता - ब्रह्मगवी

छन्दः - अनुष्टुप्

स्वरः - ब्रह्मगवी सूक्त

स्वर सहित मन्त्र

दे॑वपी॒युश्च॑रति॒ मर्त्ये॑षु गरगी॒र्णो भ॑व॒त्यस्थि॑भूयान्। यो ब्रा॑ह्म॒णं दे॒वब॑न्धुं हि॒नस्ति॒ न स पि॑तृ॒याण॒मप्ये॑ति लो॒कम् ॥

स्वर सहित पद पाठ

दे॒व॒ऽपी॒यु: । च॒र॒ति॒ । मर्त्ये॑षु । ग॒र॒ऽगी॒र्ण: । भ॒व॒ति॒ । अस्थि॑ऽभूयान् । य: । ब्र॒ह्मा॒णम् । दे॒वऽब॑न्धुम् । हि॒नस्ति॑ । न । स: । पि॒तृ॒ऽयान॑म् । अपि॑ । ए॒ति॒ । लो॒कम् ॥१८.१३॥


स्वर रहित मन्त्र

देवपीयुश्चरति मर्त्येषु गरगीर्णो भवत्यस्थिभूयान्। यो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणमप्येति लोकम् ॥


स्वर रहित पद पाठ

देवऽपीयु: । चरति । मर्त्येषु । गरऽगीर्ण: । भवति । अस्थिऽभूयान् । य: । ब्रह्माणम् । देवऽबन्धुम् । हिनस्ति । न । स: । पितृऽयानम् । अपि । एति । लोकम् ॥१८.१३॥