ऋषिः - मयोभूः
देवता - ब्रह्मगवी
छन्दः - अनुष्टुप्
स्वरः - ब्रह्मगवी सूक्त
ये । स॒हस्र॑म् । अरा॑जन् । आस॑न् । द॒श॒ऽश॒ताः । उ॒त । ते । ब्रा॒ह्म॒णस्य॑ । गाम् । ज॒ग्ध्वा । वै॒त॒ऽह॒व्याः । परा॑ । अ॒भ॒व॒न् ॥१८.१०॥
ये । सहस्रम् । अराजन् । आसन् । दशऽशताः । उत । ते । ब्राह्मणस्य । गाम् । जग्ध्वा । वैतऽहव्याः । परा । अभवन् ॥१८.१०॥