ऋषिः - मयोभूः

देवता - ब्रह्मजाया

छन्दः - अनुष्टुप्

स्वरः - ब्रह्मजाया सूक्त

PreviousNext
स्वर सहित मन्त्र

ब्रा॑ह्म॒ण ए॒व पति॒र्न रा॑ज॒न्यो॒ न वैश्यः॑। तत्सूर्यः॑ प्रब्रु॒वन्ने॑ति प॒ञ्चभ्यो॑ मान॒वेभ्यः॑ ॥

स्वर सहित पद पाठ

ब्रा॒ह्म॒णः । ए॒व । पति॑ः । न । रा॒ज॒न्य᳡ः । न । वैश्य॑ः । तत् । सूर्य॑ः । प्र॒ऽब्रु॒वन् । ए॒ति॒ । प॒ञ्चऽभ्य॑ः। मा॒न॒वेभ्य॑ः ॥१७.९॥


स्वर रहित मन्त्र

ब्राह्मण एव पतिर्न राजन्यो न वैश्यः। तत्सूर्यः प्रब्रुवन्नेति पञ्चभ्यो मानवेभ्यः ॥


स्वर रहित पद पाठ

ब्राह्मणः । एव । पतिः । न । राजन्य᳡ः । न । वैश्यः । तत् । सूर्यः । प्रऽब्रुवन् । एति । पञ्चऽभ्यः। मानवेभ्यः ॥१७.९॥