ऋषिः - अङ्गिराः
देवता - जातवेदा अग्निः
छन्दः - त्रिष्टुप्
स्वरः - ऋतयज्ञ सूक्त
यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पैः । अपि॑शत् । भुव॑नानि । विश्वा॑ । तम् । अ॒द्य । हो॒त॒ः । इ॒षि॒तः । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥१२.९॥
यः । इमे इति । द्यावापृथिवी इति । जनित्री इति । रूपैः । अपिशत् । भुवनानि । विश्वा । तम् । अद्य । होतः । इषितः । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान् ॥१२.९॥