ऋषिः - अथर्वा
देवता - वरुणः
छन्दः - पञ्चपदातिशक्वरी
स्वरः - संपत्कर्म सूक्त
एक॑म् । रज॑सः । ए॒ना । प॒रः । अ॒न्यत् । अस्ति॑ । ए॒ना । प॒रः । एके॑न । दु॒ःऽनश॑म् । चि॒त् । अ॒वाक् । तत् । ते॒ । वि॒द्वान् । व॒रु॒ण॒ । प्र । ब्र॒वी॒मि॒ । अ॒धःऽव॑चसः । प॒णय॑ः । भ॒व॒न्तु॒ । नी॒चैः । दा॒साः । उप॑ । स॒र्प॒न्तु॒ । भूमि॑म् ॥११.६॥
एकम् । रजसः । एना । परः । अन्यत् । अस्ति । एना । परः । एकेन । दुःऽनशम् । चित् । अवाक् । तत् । ते । विद्वान् । वरुण । प्र । ब्रवीमि । अधःऽवचसः । पणयः । भवन्तु । नीचैः । दासाः । उप । सर्पन्तु । भूमिम् ॥११.६॥