ऋषिः - ब्रह्मा

देवता - वास्तोष्पतिः

छन्दः - यवमध्यात्रिपदागायत्री

स्वरः - आत्मा रक्षा सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑श्मव॒र्म मे॑ऽसि॒ यो मो॒र्ध्वाया॑ दि॒शोऽघा॒युर॑भि॒दासा॑त्। ए॒तत्स ऋ॑च्छात् ॥

स्वर सहित पद पाठ

अ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । यः । मा॒ । ऊ॒र्ध्वाया॑ः । दि॒शः । अ॒घ॒ऽयुः । अ॒भि॒ऽदासा॑त् । ए॒तत् । सः। ऋ॒च्छा॒त् ॥१०.६॥


स्वर रहित मन्त्र

अश्मवर्म मेऽसि यो मोर्ध्वाया दिशोऽघायुरभिदासात्। एतत्स ऋच्छात् ॥


स्वर रहित पद पाठ

अश्मऽवर्म । मे । असि । यः । मा । ऊर्ध्वायाः । दिशः । अघऽयुः । अभिऽदासात् । एतत् । सः। ऋच्छात् ॥१०.६॥