ऋषिः - ब्रह्मा

देवता - वास्तोष्पतिः

छन्दः - यवमध्या त्रिपदा गायत्री

स्वरः - आत्मा रक्षा सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒श्म॒व॒र्म मे॑ऽसि॒ यो मा॒ दक्षि॑णाया दि॒शोऽघा॒युर॑भि॒दासा॑त्। ए॒तत् स ऋ॑च्छात् ॥

स्वर सहित पद पाठ

अ॒श्म॒ऽव॒र्म । मे॒ । अ॒सि॒ । यः । मा॒ । दक्षि॑णायाः । दि॒शः । अ॒घ॒ऽयुः । अ॒भि॒ऽदासा॑त् । ए॒तत् । सः । ऋ॒च्छा॒त् ॥१०.२॥


स्वर रहित मन्त्र

अश्मवर्म मेऽसि यो मा दक्षिणाया दिशोऽघायुरभिदासात्। एतत् स ऋच्छात् ॥


स्वर रहित पद पाठ

अश्मऽवर्म । मे । असि । यः । मा । दक्षिणायाः । दिशः । अघऽयुः । अभिऽदासात् । एतत् । सः । ऋच्छात् ॥१०.२॥